पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
काव्यमाला ।

 सामान्यतश्चित्रलक्षणमभिधाय विशेषेणाभिधातुं तद्वेदानाह—

  तच्चक्रखङ्गमुसलैर्बाणासनशक्तिशूलहलैः ।
  चतुरङ्गपीठविरचितरथतुरगगजादिपदपाठैः ॥ २ ॥

  अनुलोमप्रतिलोमैरर्धभ्रममुरजसर्वतोभद्रैः।
  इत्यादिभिरन्यैरपि वस्तुविशेषाकृतिप्रभवैः ॥ ३ ॥

  भेदैर्विभिद्यमानं संख्यातुमनन्तमस्मि नैतदलम् ।
  तस्मादेतस्य मया दिङ्मात्रमुदाहृतं कवयः ॥ ४ ॥

 तदिति । अनुलोमेति । भेदैरिति । तदेतच्चित्रं यस्मादित्यादिभिरुक्तैरन्यैरनुक्तैरपि । भेदैः कीदृशैः। वस्तुविशेषाकारात्प्रभवन्ति जायन्ते ये तैर्विभिद्यमानं भेदेन व्यवस्थाप्यमानमनन्तमसंख्यातं तत्संख्यातुं संख्यया प्रतिपादयितुं नालं न समर्थोऽस्म्यहम् । तस्मादेतस्य मया दिवात्रमुदाहृतं दर्शितं हे कवयः । इत्यादिभिर्भेदैरित्युक्तं तानेव दर्शयति—तच्चक्रेत्यादि । चक्रादीनि प्रतीतानि न वरम् । बाणासनं धनुः । चतुरङ्गपीठं द्यूतकारिविदितचतुरङ्गफलकस्तत्र रचितै रर्थतुरगगजादिपदपाठैःपध्यतेऽनेनेति पाठः श्लोकः । आदिग्रहणान्नरपदसंग्रहः। क्रमव्युत्क्रमाभ्यां यः सदृशः सोऽनुलोमप्रतिलोमश्लोकः । अर्धभ्रमणादर्धभ्रमः । सर्वतस्तु श्रमणात्सर्वतोभद्रः। आदिग्रहणात्पन्नगोमूत्रिकोदिसंग्रहः ।।

 किं पुनस्तेषां वस्तुरूपाणां विरचने लक्षणमित्याह—

  यन्नाम नाम यत्स्यात्तदाकृतिर्लक्षणं मतं तस्य।
  तद्युक्ष्यमेव दृष्यावधार्यमंखिलं तदन्यदषि ॥ ५ ॥

  यदिति । चक्रादिकं प्रसिद्धं नाम संज्ञा यस्येति विग्रहः । तद्यन्नाम । द्वितीयस्तुं नामशब्दः प्राकाश्ये । तदेवंविधं वस्तु यत्स्यात्तदाकृतिस्तदाकारस्तस्य चित्रस्य लक्षणमभि हितम् । यदनुकार्यस्य चक्रादेर्नाम संस्थानं च तदेवानुकरणस्य करणीयमित्यर्थः । तच्च चित्रलक्षणमखिलं समग्रं माघादिमहाकविरचितं लक्ष्यमुदाहरणमेत्र दृष्टवधायें शेयम् । ततो वस्तुरूपादन्यदषि सर्वतोभद्रादिकं लक्ष्यमेव दृष्टावधार्यम्,अथवा ततो लक्ष्योक्ताद्वस्तुरू पादन्यदपि मतंस्यबन्धादिकं स्वधियैवाभ्यूयम् । मार्गे दृष्ट्वान्यथापि करणं न दोषयेत्यर्थः। तेन चक्रनेमिपद्मदलादावनियम उक्तो भवतीति स्थितमेतत् ।

 तत्राष्टभिः श्लोकैर्गर्भकुतखङ्गादिवस्तुरूपान्तरैश्चक्रमाह—

  मारारिशक्ररामेभमुखैरासाररंहसा ।
  सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा ॥ ६ ॥

  माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।
  मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा ॥७॥ खङ्गबन्धः ॥ (युग्मम्)