भगवद्‌गीता अध्याय पहिला संपूर्ण भावार्थ:अर्जुन विशाद योग | Bhagawad Geeta first chapter meaning in Marathi

श्रीमद् भगवद्गीता अध्याय पहिला
श्रीमद् भगवद्‌गीता अध्याय पहिला
भगवद्‌गीता अध्याय पहिला : Bhagawad Geeta first chapter meaning in Marathi 

अध्याय पहिला भावार्थ  : अर्जुन विशाद योग 


भगवान श्रीकृष्णाने अर्जुनाला रणांगणात दिलेले ज्ञान  हे गीतेमध्ये सांगितलं आहे गीतेमध्ये एकूण 18 अध्याय आहेत आणि  आणि त्या अध्ययांचे स्वतःचे वेगळे महत्त्व आहे .गीतेच्या पहिल्या अध्यायाचे महत्त्व काय आहे हे आपण आता जाणून घेऊयात.

भगवद्‌गीता अध्याय 1  अर्जुन विशाद योग म्हणून ओळखला जातो.विशाद म्हणजे "निराशा".

सारांश : भगवद्‌गीतेचा पहिला अध्याय कौरवांची सैन्य पाहून अर्जुनाच्या निराशाची चित्रण करते. नातेवाईकांना मारण्याचा विचार त्याला  सुन्न करतो युद्धाच्या साधक बाधक गोष्टींचा अर्जुन मनात विचार करतो,                                                                                                                                                                       की यावेळी योग्य निर्णय कोणता असेल. अशाप्रकारे अर्जुन आपले धनुष्य खाली टाकल्यानंतर भगवान श्रीकृष्णाचे मार्गदर्शन घेतो.


भगवद्‌गीता :

भावार्थ : भगवद्‌गीता अध्याय एक कुरुक्षेत्राच्या मैदानात गौरव आणि पांडवांच्या  दोन सैन्यांचे एकत्रीकरण झालेले दृश्य असते . संजय ला ऋषी वेद व्यास यांनी संपूर्ण गाथा पाहण्यासाठी दिव्यदृष्टी दिली आहे.
जेणेकरून तो  दुर्योधनाचा पिता यांना सांगू शकेल संजय रुद्राष्टापर्यंत दोन्ही बाजूंच्या सैन्याचा सविस्तर आणि दोन्ही बाजूंच्या पराक्रमी योद्धांच्या पराक्रमाचे वर्णन करतो. श्रीकृष्ण ज्या बाजूने आहेत त्यांचा विजय निश्चित असल्याचेही संजयने नमूद केले आहे.

अर्जुनाला तीन लोकांच्या स्वामी श्रीकृष्णांच्या नियंत्रणाखाली असलेल्या रथात बसवले आहे विरुद्ध सैन्यात आपले सर्व नातेवाईक आपले शत्रू म्हणून  उभे असलेले पाहून अर्जुन निराश होतो. जे कालपर्यंत केवळ मित्र होते. त्यांच्या मानसिक कोंडीमुळे अर्जुन प्रथम श्रीकृष्णाला आपला रथ दोन्ही सैन्यांच्या मध्ये ठेवण्याची विनंती करतो.

जेणेकरून तो त्याच्या विरोधात उभे राहिलेल्या सर्वांना पाहू शकेल सतगुन (प्रेम आणि स्नेहाचा गुण)  द्वारे वर्चस्व असलेला अर्जुन आपले शस्त्र सोडतो. आणि रथाच्या पाठीमागे सरकतो कारण तो आतापर्यंत ज्याला तो स्वतःचा समजत होता. त्याला तो अचानक मारू शकत नाही दुर्योधनाने आत्ताच त्याला मारले तर संपूर्ण नरसंहार टळेल अशी इच्छाही तो व्यक्त करतो ,अशा प्रकारे अर्जुन श्रीकृष्णाचा आश्रय घेतो.


धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥


दृष्टवा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत्‌ ॥२॥

भगवद्गीता अध्याय पहिला
अध्याय पहिला 


पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥3॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥4॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्‌ ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङवः ॥5॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्‌ ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥6॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥7॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥8॥

अध्याय पहिला भावार्थ  : अर्जुन विशाद योग
अध्याय पहिला भावार्थ  : अर्जुन विशाद योग 


अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥9॥


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्‌।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥10॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥11॥

तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |
सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् ||1.12||

तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13||


तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14||

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15||

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: |
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ || 16||

काश्यश्च परमेष्वास: शिखण्डी च महारथ: |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: || 17||

द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते |
सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् || 18||

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलो नुनादयन् || 19||

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्‌ कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ৷৷20৷৷

अर्जुन उवाचः
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ৷৷1.21৷৷

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्‌ ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ৷৷1.22৷৷

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ৷৷1.23৷৷

संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्‌ ৷৷1.24৷৷

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ ।
उवाच पार्थ पश्यैतान्‌ समवेतान्‌ कुरूनिति৷৷1.25৷৷

तत्रापश्यत्स्थितान्‌ पार्थः पितृनथ पितामहान्‌ ।
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ৷৷26৷৷
श्वशुरान्‌ सुहृदश्चैव सेनयोरुभयोरपि ।॥26.1॥

तान्समीक्ष्य स कौन्तेयः सर्वान्‌ बन्धूनवस्थितान्‌ ৷৷1.27৷৷
कृपया परयाविष्टो विषीदत्रिदमब्रवीत्‌ ।॥27वें का उत्तरार्ध और 28वें का पूर्वार्ध॥


अर्जुन उवाच

दृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ৷৷1.28৷৷
सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे में रोमहर्षश्च जायते ৷৷1.29৷৷

गाण्डीवं स्रंसते हस्तात्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ৷৷1.30৷৷

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे৷৷1.31৷৷

न काङ्‍क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ৷৷1.32৷৷

येषामर्थे काङक्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ৷৷1.33৷৷


आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ৷৷1.34৷৷

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ৷৷1.35৷৷

निहत्य धार्तराष्ट्रान्न का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्‌ हत्वैतानाततायिनः৷৷1.36৷৷

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ৷৷1.37৷৷

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्‌ ৷৷1.38৷৷

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्‌ ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ৷৷1.39৷৷

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ৷৷1.40৷৷

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ৷৷1.41৷৷

संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः৷৷1.42৷৷


दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः৷৷1.43৷৷


उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ৷৷1.44৷৷


अहो बत महत्पापं कर्तुं व्यवसिता वयम्‌ ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ৷৷1.45৷৷


यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ৷৷1.46৷৷

एवमुक्त्वार्जुनः सङ्‍ख्ये रथोपस्थ उपाविशत्‌ ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ৷৷1.47৷৷

Post a Comment

0 Comments